|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.245. अध्यायः 245
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वर्णाश्रमोचितधर्मानुष्ठानपूर्वकब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्वादिप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-245-0x(6238)(75323)
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम्।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे॥ 12-245-1(75324)
शुक उवाच। 12-245-2x(6239)
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः।
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति॥ 12-245-2(75325)
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया।
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे॥ 12-245-3(75326)
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि॥ 12-245-4(75327)
व्यास उवाच। 12-245-5x(6240)
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र लोभसंत्यागात्सिद्धिं विन्दति कश्चन॥ 12-245-5(75328)
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः।
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु॥ 12-245-6(75329)
भूमेर्देहो जलास्त्रोतो ज्योतिषश्चक्षुषी स्मृते।
प्राणापानाश्रयो वायुः स्वेष्वाकाशं शरीरिणाम्॥ 12-245-7(75330)
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती॥ 12-245-8(75331)
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये॥ 12-245-9(75332)
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत॥ 12-245-10(75333)
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः।
मनश्चापि सदा भुक्ते भूतात्मा हृदयाश्रितः॥ 12-245-11(75334)
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः।
नियमे च विसर्गे च भूतात्मा मानसस्तथा॥ 12-245-12(75335)
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्॥ 12-245-13(75336)
आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना।
सत्वं हि तेजः सृजति न गुणान्वै कथंचन॥ 12-245-14(75337)
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः।
मनीषीमनसा विप्रः पश्यत्यात्मानमात्मनि॥ 12-245-15(75338)
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः।
मनसा दीपभूतेन महानात्मा प्रकाशते॥ 12-245-16(75339)
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्।
अशरीरं शरीरेषु निरीक्षते निरिन्द्रियम्॥ 12-245-17(75340)
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम्।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे॥ 12-245-18(75341)
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥ 12-245-19(75342)
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च।
वसत्येको महानात्मा येन सर्वमिदं ततम्॥ 12-245-20(75343)
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा॥ 12-245-21(75344)
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि।
य एवं सततं वेद सोऽमृतत्वाय कल्पते॥ 12-245-22(75345)
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः॥ 12-245-23(75346)
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः॥ 12-245-24(75347)
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन॥ 12-245-25(75348)
न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः।
न मध्ये प्रतिगृह्णीते नैव किंचित्कुतश्चन॥ 12-245-26(75349)
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किंचन।
यः सहस्र समा गच्छेद्यथा बाणो गुणच्युतः॥ 12-245-27(75350)
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः॥ 12-245-28(75351)
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृरत्य तिष्ठति॥ 12-245-29(75352)
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते॥ 12-245-30(75353)
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः।
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम्॥ 12-245-31(75354)
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च॥ 12-245-32(75355)
हानिभङ्गविकल्पानां नवानां संचयेन च।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः॥ 12-245-33(75356)
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम्।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी॥ ॥ 12-245-34(75357)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 245॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-245-2 अनागतं प्रत्यक्षानुमानाभ्यामज्ञातम्। अनैतिह्यं इदमित्थमिति वेदेनापि न निर्देश्यम्॥ 12-245-5 विद्यादिपदैः क्रमेणाश्रमचतुष्ट्यधर्मा उक्ताः॥ 12-245-7 खेषु नासादिरन्ध्रेषु॥ 12-245-8 क्रान्ते पादे बले पाणौ च विष्णुशक्रौ तत्प्रयोक्तारौ तिष्ठतः। कर्णौ स्थानं श्रोत्रमिन्द्रियं दिशो देवताः। जिह्वा स्थानं वागिन्द्रियं सरस्वती देवता। एतच्चान्यषामपि स्थानादीनामुपलक्षणम्॥ 12-245-9 आहारः शब्दादिग्रहः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|